वांछित मन्त्र चुनें
आर्चिक को चुनें

सु꣣ष्वाणा꣡स꣢ इन्द्र स्तु꣣म꣡सि꣢ त्वा सनि꣣ष्य꣡न्त꣢श्चित्तुविनृम्ण꣣ वा꣡ज꣢म् । आ꣡ नो꣢ भर सुवि꣣तं꣡ यस्य꣢꣯ को꣣ना꣢꣫ तना꣣ त्म꣡ना꣢ सह्यामा꣣त्वो꣡ताः꣢ ॥३१६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सुष्वाणास इन्द्र स्तुमसि त्वा सनिष्यन्तश्चित्तुविनृम्ण वाजम् । आ नो भर सुवितं यस्य कोना तना त्मना सह्यामात्वोताः ॥३१६॥

मन्त्र उच्चारण
पद पाठ

सु꣣ष्वाणा꣡सः꣢ । इ꣣न्द्र । स्तुम꣡सि꣢ । त्वा꣣ । सनिष्य꣡न्तः꣢ । चि꣣त् । तुविनृम्ण । तुवि । नृम्ण । वा꣡ज꣢꣯म् । आ । नः꣣ । भर । सुवित꣢म् । य꣡स्य꣢꣯ । को꣣ना꣢ । त꣡ना꣢꣯ । त्म꣡ना꣢꣯ । स꣣ह्याम । त्वो꣡ताः꣢꣯ । त्वा । उ꣣ताः ॥३१६॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 316 | (कौथोम) 4 » 1 » 3 » 4 | (रानायाणीय) 3 » 9 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा से याचना की गयी है।

पदार्थान्वयभाषाः -

हे (तुविनृम्ण) बहुत बली और बहुत धनी (इन्द्र) परमात्मन् ! (सुष्वाणासः) श्रद्धारस को अभिषुत किये हुए हम (वाजम्) आत्मबल और अध्यात्मधन को (सनिष्यन्तः) पाना चाहते हुए (त्वा) तेरी (स्तुमसि) स्तुति करते हैं। तू (नः) हमें (सुवितम्) सद्गति और उत्कृष्ट प्रजा (आ भर) प्रदान कर, (यस्य) जिसकी (नः) हमें (कोना) कामना है। (त्वोताः) तुझसे रक्षित हम (त्मना) आत्म-बल द्वारा (तना) इधर-उधर फैले शत्रुओं को (सह्याम) परास्त कर दें ॥४॥

भावार्थभाषाः -

आत्मा, मन, प्राण, शरीर आदि का बल और आत्मिक एवं सांसारिक धन पाने के लिए अनन्त बल और अपार धनवाले परमेश्वर से ही हमें याचना करनी चाहिए। उसी की कृपा से हम उत्तम गति और उत्तम प्रजा को पाने तथा शत्रु का पराजय करने में समर्थ होते हैं ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (तुविनृम्ण) बहुबल बहुधन वा। तुवि इति बहुनाम। निघं० ३।१। नृम्णमिति बलनाम धननाम च। निघं० २।९, २।१०। (इन्द्र) परमात्मन् ! (सुष्वाणासः) श्रद्धारसम् अभिषुतवन्तः वयम्। षुञ् अभिषवे धातोः लिटः कानजादेशः। ‘आज्जसेरसुक्’ अ० ७।१।५० इति जसोऽसुगागमः। (वाजम्) आत्मबलं अध्यात्मधनं च (सनिष्यन्तः२) प्राप्तुमिच्छन्तः (चित्) एव (त्वा) त्वाम् (स्तुमसि) स्तुमः। ष्टुञ् स्तुतौ, ‘इदन्तो मसि’ अ० ७।१।४६ इति मसः इदन्तत्वम्। त्वम् (नः) अस्मभ्यम् (सुवितम्३) सद्गतिम् सुप्रजां वा। सुपूर्वात् इण् गतौ धातोः, षूङ् प्राणिगर्भविमोचने धातोर्वा क्त प्रत्यये रूपम्। तथा च निरुक्तम् ‘सुविते सु इते, सूते। सुगते सुप्रजायामिति वा’। निरु० ४।१७। (आभर) आहर, (यस्य) यस्याः सद्गतेः सुप्रजायाः वा (नः) अस्माकम् (कोना४) कामना वर्तते। (त्वोताः) त्वया उताः रक्षिताः। उताः इति अव रक्षणे धातोः क्त प्रत्यये रूपम्। वयम् (त्मना) आत्मना, आत्मबलेन। ‘मन्त्रेष्वाङ्यादेरात्मनः’ अ० ६।४।१४१ इत्याकारलोपः। (तना५) तनान् इतस्ततो विस्तीर्णान् शत्रून्। तनु विस्तारे। द्वितीयाबहुवचनस्य ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्याकारादेशः। (सह्याम) पराभवेम। षह मर्षणे, संहितायाम् ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ वा० इति छान्दसं दीर्घत्वम् ॥४॥

भावार्थभाषाः -

आत्ममनः प्राणशरीरादीनां बलस्य, आत्मिकलौकिकधनस्य च प्राप्त्यर्थम् अनन्तबलोऽपारधनश्च परमेश्वर एवास्माभिः प्रार्थनीयः। तस्यैव कृपया वयं सुगतिं सुप्रजां वा लब्धुं शत्रुपराजयं च कर्तुं प्रभवामः ॥४॥

टिप्पणी: १. ऋ० १०।१४८।१ ‘सनिष्यन्तश्चित्’ ‘कोना तना त्मना सह्याम’ इत्येतयोः स्थाने क्रमशः ‘ससवांसश्च’, ‘चाकन्त्मना तना सनुयाम’ इति पाठः। २. सनिष्यन्तः लप्स्यन्तः लिप्सन्तः—इति वि०। षण सम्भक्तौ, अयमाप्नोति कर्मापि दृश्यते। ३. सुवितम् आत्मनः सकाशात् प्रेरितं पुत्रमित्यर्थः—इति वि०। सुवितं भद्रं धनम्—इति भ०। सुष्ठु प्राप्तव्यं शोभनं धनम्—इति सा०। ४. कोना। कनेः कान्तिकर्मण इदं रूपम्। पचाद्यच्। अकारस्य व्यत्ययात् ओकारः। प्रथमैकवचनस्य आकारादेशः। यस्य धनमाच्छिद्य दातुं कामयसे तस्य सुवितम् अस्मभ्यम् आभर—इति भ०। कोना शब्दस्य व्याख्याने सायणोऽपि भरतमनुकरोति। ‘किं पुनरभिभवेम ? उच्यते। कोना। कुत्सिताश्च ते ऊनाश्च कोनाः। छान्दसत्वात् कुशब्दस्य का भावः। द्वितीयाबहुवचनस्य स्थाने छान्दसत्वात् आ इत्यादेशः। कुत्सितान् ऊनान् च शत्रूनित्यर्थः’—इति वि०। कुण शब्दे इति धातोरपि ‘कोना’ इति व्युत्पादयितुं शक्यम्। कोना शब्दमयी प्रार्थनेत्यर्थः। ५. तना धनेन—इति वि०। तना, तनोतेस्तनयः, तनयेन—इति भ०। तना धननामैतत्। विस्तृतानि धनानि....सह्याम, षह अभिभवे, धातूनामनेकार्थत्वात् त्वत्प्रसादाल्लभेमहि—इति सा०।